|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.60. अध्यायः 060
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण दुर्योधनं प्रति स्वपरपक्षयोः बलाबलविमर्शनेन पाण्डवेषु पुत्रप्रेम्णा धर्मादिदेवानां साहाय्यकरमाभिधानपूर्वकं स्वस्य शमाभिरोचनवचनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-60-0x(3579)(34103)
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥ 5-60-1(34104)
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥ 5-60-2(34105)
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान्।
`यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ॥ 5-60-3(34106)
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।'
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥ 5-60-4(34107)
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥ 5-60-5(34108)
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥ 5-60-6(34109)
आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ 5-60-7(34110)
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥ 5-60-8(34111)
अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ॥ 5-60-9(34112)
जातिगृद्ध्याऽभिपन्नाश्च पाण़्डवानामनेकशः।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥ 5-60-10(34113)
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः ॥ 5-60-11(34114)
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥ 5-60-12(34115)
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ 5-60-13(34116)
वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥ 5-60-14(34117)
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयंकरः ॥ 5-60-15(34118)
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥ 5-60-16(34119)
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥ 5-60-17(34120)
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥ 5-60-18(34121)
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥ 5-60-19(34122)
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥ 5-60-20(34123)
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम्।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ॥ 5-60-21(34124)
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥ 5-60-22(34125)
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते ॥ 5-60-23(34126)
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ॥ 5-60-24(34127)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षष्टितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-60-5 शक्त्या परिच्छिद्येति शेष्ठः ॥ 5-60-9 भीमे भयंकरे ॥ 5-60-10 जातिगृद्ध्या जन्मग्रहणाद्धेतोः युधिष्ठिरादीनां पितरो धर्मादयोपि तेषां सहायाः सन्ति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|